Saturday, October 17, 2009

malaxmi pushpa mantra

ॐ यज्ञेन यज्ञमयजंत देवास्तानि धर्माणि प्रथमान्यासन् ।
ते ह नाकं महिमानः सचंत यत्र पूर्वे साध्याः संति देवाः ॥
ॐ राजाधिराजाय प्रसह्य साहिने नमो वयं वैश्रवणाय कुर्महे।
स मे कामान् कामकामाय मह्यं कामेश्वरो वैश्रवणो ददातु।
कुबेराय वैश्रवणाय महाराजाय नम:।
ॐ स्वस्ति साम्राज्यं भौज्यं स्वाराज्यं वैराज्यं पारमेष्ठ्यं राज्यं माहाराज्यमाधिपत्यमयं समंतपर्यायी स्यात् सार्वभौम: सार्वायुषान्तादापरार्धात् । पृथिव्यै समुद्रपर्यन्ताया एकराडिति तदप्येष् श्लोकोऽभिगीतो मरुत: परिवेष्टारो मरुत्तस्यावसन् गृहे । आविक्षितस्य कामप्रेर्विश्वेदेवा: सभासद इति ॥
ॐ महादेवी च विद्महे, विष्णुपत्नी च धीमहि ।
तन्नो लक्ष्मी प्रचोदयत् ॥
ॐ वक्रतुण्डाय विद्महे एक दन्ताय धीमहि ।
तन्नो दन्ति प्रचोदयात् ॥
ॐ ना ना सुगन्धि पुष्पाणि रितु कालो भवानी च, पुष्पान्जलि मर्यादत्त ग्रिहाण परमेश्वरि ।
ॐ महालक्ष्म्यै नमः, मन्त्रपुष्पाञ्जलिं समर्पयामि ।